संस्कृतसाहित्यधारा
Creators
- 1. Lecturer, Department of Samhita & Siddhanta SBG Ayurvedic Medical College & Hospital , Belagavi .Karnataka , INDIA .
Description
विश्वे भारतं पुनः विश्वगुरुस्थाने दृष्टुं इच्छामः चेत् तत्र भारतस्य संस्कृत्याः तथा संस्कृतभाषायाः योगदानम् अत्यन्तम् महत्वपुर्णमस्ति । अतः " भारतस्य प्रतिष्ठे व्दे संस्कृतं संस्कृतिश्च " इति उक्तिः योग्यमस्ति । कारणं यदि भारतस्य अतिपुरातनां संस्कृतिं ज्ञातुमिच्छामः चेत् तर्हि भारतीयभाषासु अतिपुरातनी भाषा संस्कृतभाषया एव शक्येत । भारतीयसंस्कृतेः, परम्परायाः, सम्प्रदायानां तथा सामन्यजीवनपद्धत्याः एवं ऋषि-महर्षिणां भव्यजीवनानुभुतेः अनुभवराशि: संस्कृतंसाहित्येन अवगम्यते ।
"सम्" उपसर्गपूर्वकं , कॄ धातुना , क्त प्रत्ययेन निर्मितं नपुंसकलिङ्गपदं । सम्+कॄ+क्त= संस्कृतम्
संस्कारितं , सम्यक् कृतं , परिमार्जितं , शुद्धं इति ।
भाष्यते इति भाषा । भावनानां अभिव्यक्तेः माध्यमं एव भाषा । तर्हि संस्कारिता, सम्यक् कृता , परिमार्जिता , शुद्धा भाषा एव संस्कृतंभषा । संस्कतभाषां देववाणी, भारती, सुरवाणी , गीर्वाणा , इत्यादि नामभिः जनाः अभिजानन्ति ।
Files
Suvarna.pdf
Files
(1.3 MB)
Name | Size | Download all |
---|---|---|
md5:efc2037ce7e12a41fff13186feed8934
|
1.3 MB | Preview Download |