संस्कृतसाहित्ये आदर्शनार्यः
Creators
- 1. उपनिदेशिका संस्कृत अकाडमी (राष्ट्रियसंस्कृतसंस्थानेन मानिता आदर्शशोधसंस्था)उस्मानियाविश्वविद्यालयः, हैदराबाद-५००००७
- 2. संस्कृतविभागः सिलिकानान्ध्रविश्वविद्यालयः अमेरिका
Description
मन्त्रद्रष्टुषु नार्यः अपि आसन्निति वैदिकवाङ्मयानुशीलनेन स्पष्टीभवतिऋग्वेदस्य दशममण्डले नैकाः ऋषिकाः दरीदृश्यन्ते । श्लोकेस्मिन् दिलीपपत्नीं सुदक्षिणां सुन्दरैरुपमानैः ललितललितपदैः कालिदासः वर्णयामासनारीमणीनां गुणगणाः ये कविभिः संस्कृतसाहित्ये संस्तुताः कीर्तिताश्च ते समाजे बहुधा प्रभावं जनयन्ति । रामादिवत् वर्त्तितव्यम् न तु रावणादिवत् इति यं मम्मटः आदर्शपुरुषरूपेण रामं कथयति । भारते रामायणमहाभारतयोः भूयान् प्रभावः अस्ति । विशिष्य अनयोः इतिहासकाव्ययोः नारीरत्नानि प्रातःस्मरणयोग्यानीति भारतीयानां विश्वासः। दशममण्डले नैकाः ऋषिकाः दरीदृश्यन्ते घोषा गोधा विश्ववारा अपालोपनिषन्निषत् । ब्रह्मजाया जुहूर्नाम अगस्त्यस्य स्वसादितिः इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी लोपामुद्रा नद्यश्च नारी शश्वती श्रीर्लाक्षा सार्पराज्ञी वाक् श्रीलाक्षा सापथराज्ञी वाक् श्रद्धा मेधा च दषक्षणा । रात्री सूर्याथ च सावित्री ब्रह्मिाषदन्य ईरिताः इति बृहद्देवता नाम्नि ग्रन्थे ऋषिकाः उल्लिखिताः ।
भारते रामायणमहाभारतयोः भूयान् प्रभावः अस्ति। विशिष्य अनयोः इतिहासकाव्ययोः नारीरत्नानि प्रातःस्मरणयोग्यानीति भारतीयानां विश्वासः।
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा।
पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम्।।
आ पौराणिककालात् पतिव्रतानां नारीणामेतासां पवित्रचरित्रवर्णनं भारतीयनारीसमाजे प्रभावं जनयति । सीता सावित्री दमयन्ती द्रौपदी इत्यादयः नार्यः नारीभिः स्तूयन्ते। तासां चरित्रावगमनम् अनुसरणं च अस्माकं आद्यं कर्तव्यं स्यात् ।
Files
Varalaksmi.pdf
Files
(1.4 MB)
Name | Size | Download all |
---|---|---|
md5:3aacdd390f7e8ce2c4fc1247ef22f645
|
1.4 MB | Preview Download |