अलुक्समासविमर्शः ('Aluk Samasa'- An Analysis)
Creators
Description
दृष्टिभेदेन समासस्य अनेकधा प्रभेदाः सम्भवन्ति। तत्र समासप्रक्रियायाम् अलौकिकविग्रहवाक्यस्य समासे क्रियमाणे प्रातिपदिकसंज्ञायां सत्यां “सुपो धातुप्रातिपदिकयोः” इति सूत्रेण समासघटकसुब्विभक्तीनां लुक् भवति। लुकि जाते लुक्समासः इत्येकः प्रभेदः। अस्य लुकः निषेधे समासघटकपूर्वपदघटकविभक्तेरलुकि अलुक्समास इति समासस्य अपरः प्रभेदः। ‘अलुक्समासविमर्शः’ इत्याख्ये शोधप्रबन्धे मुख्यतः द्वयोः प्रश्नयोः समाधानं विमृश्यते। अलुक्समासस्य प्रवृत्तिबीजभूततत्त्वमित्येकः विषयः। समस्ते असमस्ते च अलुक्समासे क्वचित् समानमेव रूपं दृश्यमानं भवति। तत्र समस्ताऽसमस्तयोः भेदग्रहः कथं सम्भवतीति द्वितीयः प्रश्नः। अनयोः विषययोः प्रतिपादनाय आनुषङ्गिकतया विषयान्तराण्यपि प्रतिपादितानि। यथा, समासभेदाः, अलुक्समासस्वरूपं, अलुक्समासप्रयोजनं, अलुक्समासप्रक्रिया चेति।
Files
Aluk Samasa- An Analysis.pdf
Files
(541.2 kB)
Name | Size | Download all |
---|---|---|
md5:59fd49e7724efbffb752fbb9cd1d75e7
|
541.2 kB | Preview Download |