एकदर्शी- एकादशी
Creators
- 1. Research Scholar, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
Description
समस्तभूमण्डलस्थितसप्तद्वीपान्यतमजम्बूद्वीपे भरतवर्षे भरतखण्डे विद्यमानातिपवित्रदेशः अस्माकं भारतदेशः । यतः "क्षणायुषां भारतभूजयो वरः" इति वेदविभागकर्त्रा पुराणप्रणेत्रा व्यासमहर्षिणोक्तम् । अपिच भगवतो विष्णोः रामकृष्णादि अवताररूपाणि ,माहाल्क्ष्म्याः सीतारुक्मिण्यादिरूपाणि,वाय्वादिसमस्तदेवानां अवतारोपि अस्मिन् पावनक्षेत्रे बभूव । इदन्तु ज्ञायते -
आद्यं स्वयं व्यक्तमिदं विमानं रङ्गसञ्ज्ञितम् ।
श्रीमुष्णं वेङ्कटाद्रिश्च शालग्रामस्तु नैमिषम् ॥
तोताद्रिः पुष्करञ्चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतळे ॥
इतोपि एतादृशः पुण्यभूमिसद्भावविषयः अर्थात् तीर्थक्षेत्राणि बहवः सन्ति । तस्मात् जन्तूनाम् एतस्मिन् पवित्रमये भारते क्षणकालवास एव महत्भाग्यम् । यैः विविधसांसारिकदुःखतप्तजीवैः , सदाचारिभिःज्ञानिभिश्च मानवैः यद्यत् दानादिसत्कर्म अत्र क्रियते चेत् तच्च अतीवपुण्यदायकं स्यात्। तेषाम् चेतनानाम् अतीवपुण्यसङ्ग्रहो भवति । तेन च पुण्यसञ्चयेन नानाप्रकारैः भगवद्विषयक ज्ञानसम्पादनम् । तेन ते च जीवाः भगवत्प्रसादरूप चतुर्विधपुरुषार्थेषु अन्यतमं मोक्षं प्राप्नुवन्ति ।
Notes
Files
एकदर्शी- एकादशी.pdf
Files
(276.1 kB)
Name | Size | Download all |
---|---|---|
md5:6d1f259e912bec48db243486ee8525f7
|
276.1 kB | Preview Download |