Planned intervention: On Thursday 19/09 between 05:30-06:30 (UTC), Zenodo will be unavailable because of a scheduled upgrade in our storage cluster.
Published December 31, 2022 | Version v1
Journal article Open

जनकल्याणे नीतिशतकस्य माहात्म्यम् (The Greatness of Nītiśataka in the welfare of Citizen)

Creators

Description

काव्यस्य साहित्यस्य वा मूलभूते प्रयोजने द्वे, अलौकिकानन्दानुभूतिः शिक्षा च। मनुष्याणां सर्वतः उन्नतेः प्रयत्नस्य पूर्णप्रतिफलनं संस्कृतसाहित्ये परिलक्ष्यते। प्राचीनभारतीयसभ्यतायाः संस्कृतेश्च समुन्नायको वेदवेदाङ्गादिः शास्त्रम्। मनुष्यजीवनस्य उत्कर्षः अपकर्षश्च एतेषां शास्त्राणामुपरि आधारितः। अस्मिन् मनुष्यजीवने केन सह कीदृशः व्यवहारः काङ्क्षितः, किं कर्तव्यम्, किमकर्तव्यम्, कः सन्मार्गः, कण्टकाकीर्णः मार्गः कः, कस्मात् आदर्शजीवनस्य प्राप्तिर्भवति – एतेषां प्रश्नानां निश्चितं निराकरणमस्ति नीतिशास्त्रे। कविना भर्तृहरिणापि शतकत्रये स्फुटतया अनुरूपः प्रयासः क्रियते। शतकत्रयान्तर्गतः शृङ्गारशतकं व्यक्तिजीवनेन सह, वैराग्यशतकं परमार्थजीवनेन सह तथा नीतिशतकं सामाजिकजीवनेन सह सम्बन्धयुक्तम्। शतकत्रयं मूलतः सत्य-शिव-सुन्दरतत्त्वं समन्वितम्। संस्कृतवाङ्मये शुक्र-विदुर-चाणक्य-भर्तृहरिप्रणीतेषु नीतिग्रन्थेषु भर्तृहरेः नीतिशतकस्य विशिष्टमेकं स्थानं वर्तते। अपूर्वेऽस्मिन् नीतिग्रन्थे कविना संसारस्य व्यवहारिकजीवनस्य सकलगूढं महत्त्वपूर्णं च विषयं चित्रितम्। नीतिशतके मनुस्मृतिः इव शिक्षा, महाभारतमिव उपदेशः, पुराणमिव रसास्वादनम्, दर्शनशास्त्रमिव तर्कयुक्तिः उपलभ्यते। मानवकल्याणे नीतिशतकोक्तनैतिकशिक्षायाः माहात्म्यमस्य शोधप्रबन्धस्य आलोच्यविषयः।  

 

Files

The Greatness of Nītiśataka in the welfare of Citizen.pdf

Files (486.6 kB)