गुमानिकविप्रणीतम् "उपदेशशतकम् एकम् अध्ययनम्
Authors/Creators
- 1. Research Scholar, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
- 2. Research Professor, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
Description
संस्कृतवाङ्मयं महासागरवत् अत्यन्त विस्ताररूपेण व्याप्तं अस्ति । अनेकानि कविरत्नानि असङ्ख्यातकव्यानि रचयित्वा संस्कृतवाङ्मयस्य माहात्म्यं प्रकाशितवन्तः । ऋषीणां दर्शनस्वरूपा एव वेदाः,तेषां सहायिकाङ्गानि वेदाङ्गानि, अष्टादश पुराणानि च महाकाव्यानां रचनायां पूरकं प्रेरकं च सन्ति । कालिदास, भास, भारवि इत्यादयः महान् कविवरेण्याः तेषां अनन्यकृतिभिः लोकप्रियाः अभवन्। न केवलं एते महाकवयः अपितु अन्ये बहवः कवयः बाह्यलोके प्रकाशम् अनागत्य इदानीमपि अज्ञाता एव वर्तन्ते । एते अज्ञातकवयः साहित्यकृष्यां प्रवृत्ता भूत्वा बहुमूल्यं योगदानं दत्तवन्तः । उदासीनतया अज्ञानतया अवशिष्टः ग्रन्थेषु गुमानिकवेः 'उपदेशशतकम्' अपि अन्यतमः।
व्यक्तिगतरूपेण सामाजिकरूपेण च मनुष्याणां आचरणं कथं भवेत् इति नीतिशास्त्रग्रन्थाः अस्मान् बोधयन्ति । कथायाः अङ्गत्वेन आगता एते ग्रन्थाः मधुरलेपित औषधमिव स्वादिष्टाः परिणमाकारिणः च भवन्ति । सरलभाषा, प्रत्यक्षनिरूपणा, मृदुमधुरपदप्रयोगः, सुभगशैली - एते गुणाः नीतिकाव्यस्य रहस्यम्। अनेकेषु नीतिकाव्येषु 'उपदेशशतकस्य' तथा तस्य लेखक गुमानिकवेः विषये संक्षिप्त परिचयोऽत्र दीयते।
गुमानिकविः क्रि.श. 1790, फरवरी मासस्य प्रथमे दिनाङ्के उत्तरप्रदेशस्य नैनीतालमण्डलस्य 'काशीपुर' इति प्रसिद्धनगरे अजायत। तस्य पिता 'देवनिधिः' इति, माता 'देवमञ्जरी' इति । अयं कविः संस्कृतभाषायां, काव्यकलायां च पण्डितः अभवन् । तेन विरचितेषु पञ्चादश ग्रन्थेषु 'उपदेशशतकम्' प्रसिद्धं जनप्रियं च अस्ति ।
'आर्या' छन्दसी विरचिता शतश्लोकानां नीतिबोधक कृतिरेव 'उपदेशशतकम्' । अत्र प्रत्येकश्लोकस्य पादत्रयं कथामेकां निरूप्य चतुर्थः पादः अस्याः कथायाः नीतिं बोधयति । अत्र श्लोकाः रामायण-महाभारत-भागवतपुराण कथाभिः प्रेरणां प्राप्य रचिताः सन्ति । अस्याः कृतेः रचनातन्त्रं अनन्यमस्ति । कथा तथा नीतिनिरूपणावसरे संयोजनसन्दर्भे च कविः नैपुण्यं प्रदर्शितवान् । नीतिशास्त्रस्य विधि-निषेध मार्गद्वयमपि चतुरतापूर्वकं कविः प्रस्तौति । 'धीरः समयं प्रतीक्षेत', 'साम्ना मूर्खं वशेकुर्यात्' इत्यादयः वाक्येषु विधि मार्गेण नीतिं बोधयति । 'नहि निजबन्धुर्विरोद्धव्यः', 'प्राप्तैश्वर्यान् न दृप्तः स्यात्' इत्यादयः वाक्येषु निषेधमार्गेन नीतिं बोधयति । अलङ्कारभारं विना, कठिणपदप्रयोगं विना, सरलसुन्दर निरूपणशैली जनानन्दकरी अस्ति । ’अज्ञातकवि’ गुमानिना रचितं ’उपदेशशतकम्’ ग्रन्थविषये मया सज्जीकृतं निबन्धं ’विश्वमाङ्गल्यं’ संस्कृतसम्मेलने सविस्तारेण प्रस्तौतुं इच्छामि।
Files
shilaja.pdf
Files
(957.0 kB)
| Name | Size | Download all |
|---|---|---|
|
md5:c21b8974dcfce7aa0e4ed8b9edf5d906
|
957.0 kB | Preview Download |