Published December 31, 2022 | Version v1
Journal article Open

विभावना-विशेषक्तयोः समीक्षात्मकपर्यालोचनम् (An Analysis of Vibhāvanā and Viśeṣokti)

Authors/Creators

Description

संस्कृतसाहित्याकाशे उज्ज्वलनक्षत्ररूपेण बहुषु आलंकारिकेषु अलंकारस्य आलोचनायां मया मम्मटविश्वनाथौ आलोच्यते। मम्मटाचार्येण काव्यप्रकाशः इति ग्रन्थे नवमे तथा दशमोल्लासे शब्दार्थलंकारयोः आलोचना क्रियते। तत्परवर्तीनि काले आलंकारिकः विश्वनाथः साहित्यदर्पणेति ग्रन्थस्य दशमपरिच्छेदे शब्दार्थलंकारयोः आलोचनां कृतवान्। अर्थालंकारयोः आलोचनापूर्वम् अलंकारशब्दस्य अर्थः अवश्यमेव ज्ञातव्यः। अलमिति शब्देन सह कार शव्दस्य संयोगे अलंकारः शब्दः निष्पन्नः। अलं शब्दस्य बहुविधार्थेषु एकोऽर्थः शोभा सोन्दर्यं वा। वेदे ‘अलं’ शब्दस्य पर्यायवाचकः ‘अरम्’ इति शब्दः प्राप्यते। अलंकारशब्दः द्यर्थकः। ‘अलंक्रियते शोभा साध्यते अनेन’- इति करणवाच्ये अलं पूर्वकात् कृधातोः घञि प्रत्यये अलंकारशब्दः निष्पन्नः। अलंकारस्यार्थः सौन्दर्यस्य साधनम्। कटककुन्डलं विना नारीणां देहस्य सौन्दर्यं न वर्धितं भवति। तद्वत् उपमाद्यलंकारं विना काव्यशरीरस्य  शोभावर्धनं न भवति।  

 

Files

An Analysis of Vibhāvanā and Viśeṣokti.pdf

Files (417.5 kB)

Name Size Download all
md5:0233bf14df9a9ab66637a5d5991d367d
417.5 kB Preview Download