Published October 25, 2022
| Version 16 July 2022
Journal article
Open
वरणीयगुरुगुणाः
Authors/Creators
- 1. Research Professor, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
Description
तत्फलं गळितं [पतितं] कल्पवृक्षात् । स च कल्पवृक्षस्तु निगमः । चिन्तितं फलं प्रदिशतीति हेतोः कल्पवृक्षस्य कल्पवृक्ष इति नाम । निगमस्तु कल्पवृक्ष इव सर्वैरपेक्षितं फलं सुखं वा दत्ते इति कारणतः कल्पतरोः दृष्टान्तोऽत्र । निगमानामध्ययनेन, अभ्यासेन, नियततया पठनेन च सर्वे नराः स्वाभीष्टं प्राप्नुवन्ति । मोक्षादिशाश्वतसुखप्राप्त्यर्थञ्च निगमाः अवश्यमध्येतव्याः । यथा निगमाध्ययनं मोक्षादिफलदानसमर्थं तथा तस्य निगमस्य साररूपं, फलरूपञ्च श्रीमद्भागवतम् अधेतॄणां सर्वाभीष्टदायि । भगवतोऽतिशयानुग्रहकारणीभूतञ्च । तस्मादेव तत्फलरूपं श्रीमद्भागवतं पीयूषरससम्भृतञ्चेति पुराणज्ञानां मतम् । तत्फलं पीयूषरससम्भृतं , मरणपर्यन्तमपि, सर्वैः सुध्येयमिति तु तज्ज्ञानामभिप्रायः ।
Notes
Files
वरणीयगुरुगुणाः.pdf
Files
(191.0 kB)
| Name | Size | Download all |
|---|---|---|
|
md5:cfa24d1e26ed9ddc4722a7a48a7e138d
|
191.0 kB | Preview Download |