Published May 25, 2026
| Version v1
Journal article
Open
राजाभर्तृहरेः मते अभिवृत्त्याधारितव्यक्तित्वम्
Authors/Creators
Description
राजाभर्तृहरिणा स्वानुभवानामाधारेण मानवजीवनस्य लौकिकव्यवहारस्य च विस्तरेण निजग्रन्थेषु विवेचना कृता। तेन विरचिताः शतकत्रयग्रन्थाः पदे पदे मानवेभ्यः पथप्रदर्शनं कुर्वन्ति। अद्यापि लोके राजाभर्तृहरेः ग्रन्थाः प्रासङ्गिकतां भजते। ननु मनोवैज्ञानिकपक्षाः यथा- मानवव्यवहारः व्यक्तित्वं, अभिवृत्तिः, शीलगुणाः दोषाश्चेत्यादयः तेन सुदृढतया प्रतिपाद्यन्ते। मनोवैज्ञानिकपक्षेषु अभिवृत्तिः वा मनोवृत्तिः मानवजीवने किमपि विशिष्टं स्थानं भजते। कमपि जनं प्रति, व्यवहारं प्रति, वस्तु प्रति वा घटनां प्रति जगति प्रत्येकस्य मानवस्य मस्तिष्के कापि धारणा तिष्ठति इयं हि धारणा अभिवृत्तिः अथवा मनोवृत्तिः भवितुम् अर्हति। शोधपत्रेऽस्मिन् राजाभर्तृहरेः अभिवृत्याधारितव्यक्तित्वमतानि प्रतिपादनाय प्रयासः विहितः। अभिवृत्या हि मानवव्यक्तित्वं निर्माति। अभिवृत्तयः हि मानवानां व्यवहारमूले विराजन्ते। मानवः क्वचित् स्वीकार्यतां धरति क्वचिच्च नकारात्मक व्यवहारं च प्रदर्शयति। मानवाय सफलतानाम् असफलतानां कृते अभिवृत्तयः प्रबलपक्षपातितां निर्वहन्ति।
Files
6a5f7ab049b4b.pdf
Additional details
Related works
- Is version of
- Journal article: https://shisrrj.com/home/article/view/SHISRRJ269347 (URL)