Published December 25, 2024 | Version v1

श्रीवृदावनमहिमामृतकाव्ये अलङ्कारप्रयोगसौन्दर्यम्

Authors/Creators

  • 1. mscbdu

Description

श्रीवृदावनमहिमामृतकाव्ये अलङ्कारप्रयोगसौन्दर्यम्

अल‌ङ्कारशब्दोऽयम् अलम् (भूषणार्थकम्) इत्युपसर्गपूर्वकं कृ धातुना घञ् प्रत्यये निष्पद्यते। यस्यार्थो भवति शोभाधायकं तत्त्वम्। स चाल‌ङ्कारः कटककुण्डलहारादयः इति नायिकामाभूषणं तथा अनुप्रासोपमादयः काव्यगताल‌ङ्काराः इति द्विधा वर्गीकरणं कर्तुं शक्यते। यथा नायिकायाः शरीरेमणिबन्धकटककुण्डलहारादयः शरीरस्य शोभां वर्धयन्ति। तथैव अनुप्रासोपमादयः शब्दार्थाल‌ङ्काराः शब्दार्थरूपीकाव्यशरीरस्य शोभां वर्धयन्ति। काव्येषु अल‌ङ्कारान् विना शब्दार्थयोः सौन्दर्य क्वचित् न जायते। उक्तं यथा भामहेन स्वीये काव्याल‌ङ्कारग्रन्थे -

न कान्तमपि निर्भूषं विभाति वनितामुखम् ।।'

अल‌ङ्कारशब्दस्य व्युत्पत्तिद्वयं सम्भवति। तद्यथा (क) अलङ्करोति इति अलङ्कारः। अनया व्युत्पत्त्या शोभावर्धकतत्त्वमेव अल‌ङ्कारः। अनेन कटककुण्डलादयः गृहह्यन्ते। (ख) अलङ्कृति अलङ्कारः इत्यत्र तु करणव्युत्पत्तिः। अनुप्रासोपमादयः काव्यगताल‌ङ्काराः शब्दार्थयोः सौन्दर्याभिवर्धनस्य हेतुभूताः भवन्ति। उक्तं हि दण्डिना काव्यादर्श द्वितीयपरिच्छेदे - काव्यशोभाकरान्धर्मान् अल‌ङ्कारान् प्रचक्षते।।'

अलंकारस्य प्रयोगः न केवलं लौकिकसाहित्ये अपि तु वैदिकसाहित्ये ऋग्वेदे तस्य प्रयोगः बभूव। ऋग्वेदे अलम् इति स्थाने अरम् इति पदस्य प्रयोगमुपलभ्यते। ऋ इति धातुना अरम् इति पदस्योत्पत्तिर्जायते। यः गतिं सूचयति। उक्तं यथा ऋग्वेदे का ते अस्त्यर‌ङ्कृतिः सूक्तैः ।।'

अग्निपुराणे यद्यपि काव्यस्यात्मा रस इति वर्णितमस्ति, तथापि काव्यस्य प्राणधारा भवति अलंकारः। तत्रापि अलंकाररहितं वाणी विधवेव प्रतिभाति। तद्यथा- अर्थाल‌ङ्काररहिता विधवेव सरस्वती।।'

अल‌ङ्कारस्य भेदत्रयं परिदृश्यते। तद्यथा-

1. शब्दाल‌ङ्कारः- शब्दपरिवृत्त्यसहत्वे शब्दालङ्कराः। अर्थात् यत्र स्वेच्छानुसारं शब्दानां परिवर्तनं नैव सहते। तत्र

शब्दस्य चमत्कारेण आवृत्तिर्जायते।

2. अर्थालङ्कारः- अर्थालङ्कारे तु अर्थस्य चमत्कारो भवति। तत्र अर्थाल‌ङ्कारस्य लक्षणं यथा शब्दपरिवृत्तिः सहत्वे अर्थालङ्कारः। अर्थात् यत्र शब्दानां परिवर्तनं सहते। शब्दानां परिवर्तनं तु कर्तुं शक्यते। 3.

उभयाल‌ङ्कारः-शब्दपरिवृत्तिः सहत्वे असहत्वे उभयालङ्कारः

यत्र शब्दालङ्कारार्थाल‌ङ्कारयोः द्वययोः लक्षणं संगच्छते तत्र उभयाल‌ङ्कारः भवति। तत्र शब्दार्थयोः चमत्कारो वर्तते। तत्र यतो हि अलङ्काराः शब्दाल‌ङ्काराः अर्थाल‌ङ्कारश्च शब्दार्थयोः काव्यस्य शरीरभूतयोः सौन्दर्यमभिवर्धयन्ति, तेनैव कवयः नाट्यकाराश्च स्वीये काव्ये अलङ्काराणां नियोजनं कुर्वन्ति।

शोधपत्रस्य स्योद्देश्यम् - यद्यपि संस्कृतकाव्येषु भासकालिदासभारव्यादीनां सर्वेषामपि काव्येषु अलङ्काराः सुशोभन्ते, अलङ्कारेण रहितं काव्यं तु मृतशरीरमिव क्वचित् नैव शोभते। परन्तु श्रीलप्रबोधानन्दसरस्वतीपादानां यानि यानि काव्यानि विलसन्ति त, तेषु सर्वत्र चमत्कारेण विविधालङ्काराणां सौन्दर्य परिलक्ष्यते। श्रीवृन्दावनमहिमामृतकाव्ये सप्तदशशतकेषु प्रायः सप्तशतं पद्यानि सन्ति। तेषु सर्वत्र अलङ्काराः तत्काव्यस्य शोभाधायकाः भवन्तीति नास्ति सन्देहः लेशोऽपि। अत एव शोधपत्रेऽस्मिन् केषुचित् पद्येषु अलङ्कारणां परिशीलनं विहितम्। येन श्रीलप्रबोधानन्दसरस्वतीपादः न केवलं कश्चन श्रीकृष्णश्रीराधयोर्भक्तः भक्तकविश्च, अपि तु सः कञ्चन विशिष्टः साहित्यिकोऽपि अभूदिति प्रमाणयितुं शक्यते। तदेव शोधपत्रस्यास्य वैशिष्यमस्ति ।

 

Files

DocScanner Jun 3, 2026 8-59 PM (1).pdf

Files (3.5 MB)

Name Size Download all
md5:4c53ea4cec41c0599821519109ffa14e
3.5 MB Preview Download

Additional details

Identifiers

ISSN
2349-364X

References

  • 18