Published 2025 | Version v1

पारस्करगृह्यसूत्रे गर्भाधानसंस्कार: - एकमध्ययनम

  • 1. Utkal University

Contributors

  • 1. ROR icon Utkal University

Description

शुक्लयजुर्वेदस्य प्रसिद्धगृह्यसूत्रं भवति पारस्करगृह्यसूत्रम्। अस्य पारस्करगृह्यसूत्रस्य रचयिता भवति आचार्य: पारस्करः। पारस्करगृह्यसूत्रे सामाजिक-सांस्कृतिक-धार्मिक-दार्शनिक-राजनैतिक-अर्थनैतिक-भाषिक- मनस्त्वात्त्विक-शास्त्रगतानि बहुविधानि वैशिष्ट्यानि परिदृश्यन्ते। प्रत्येकगृह्यसूत्रमिव पारस्करगृह्यसूत्रस्य सम्बन्धः गृहस्थजीवनेन सह वर्त्तते। पारस्करगृह्यसूत्रे वर्णिताः विवाहादित्रयोदशसंस्काराः मानवजीवनस्य सुपरिचालनाय उन्नताः
मनोवैज्ञानिकप्रक्रियाः भवन्ति। प्रत्येकमनुष्यस्य सर्वाङ्गीणोन्नतये पारस्करगृह्यसूत्रस्य अवदानम् अतुलनीयम्। संस्काराणां शास्त्रोक्तरीत्या परिपालनेन मनुष्यणां मनसि चित्ते वा पवित्रभावना उदेति। संस्काराणां विधिपूर्वकमनुष्ठानं वैदिककालादारभ्य अद्यावध्यपि क्रियते। संस्कारैः मानवजीवनं सुन्दरं सुश्व्वलितं च भवति। यथा मध्ये मध्ये संस्कारेण द्रव्यस्य सुन्दरता अक्षुण्णा सन्ती अनुदिनं वर्धते। तथैव गर्भाधानादारभ्य अन्त्येष्टिं यावत् क्रियमाणैः संस्कारैः संस्कारयुक्तः मनुष्य: निष्कलङ्कः सन् सदाचारसम्पन्नः भूत्वा मर्त्यपृष्ठे अनुदिनं परिशोभते। स्मार्तकर्मभिः श्रोतकर्मभिश्च मानवानां शरीरमनबुद्यात्मानः संस्करोतीति संस्कारः। संस्कारमाध्यमेन त्रयोदशसंस्कारेषु गर्भाधानसंस्कारेण शिशोः दोषापनयनं भवति, सद्गुणानामभिवृद्धिः भवति, अतिशयाधानञ्च भवति। उत्तमसन्तानाय अस्य संस्कारस्य प्रयोजनमस्ति।

Files

Paraskaragrhyasutre Garbhadhana Samskara.pdf

Files (2.0 MB)

Name Size Download all
md5:8f3d90ae98ed3b599553b30b3ae82429
2.0 MB Preview Download