Published March 2022 | Version v1

प्रणतिपञ्चाशिकाकाव्ये दशावतारवर्णनम्

  • 1. Sanskrit Department, Utkal University

Contributors

  • 1. Sanskrit Department, Utkal University

Description

दारुब्रह्म, पुरुषोत्तमश्रीजगन्नाथं प्रति समर्पितं नवधाभक्तिरसपरिपूर्णं प्रणतिपञ्चाशिकाकाव्यं कविप्रवराचार्येण प्रफेसर (डॉ.) श्री सुवासचन्द्रदाशमहोदयेन विरचितम्। पञ्चाशत्-श्रोक-परिमिता इयं प्रणतिपञ्चाशिका एका लघुगीतिकाव्यम्। २०११ तमे वर्षे श्रीपंचमितिथौ प्रकाशिकाया: डॉ. शान्ति प्रियादेव्याः तत्वावधानेन काव्यमिदम् अङ्ि्कताग्राफिकस भुवनेश्वरतः प्रकाशितम्। वेदसाहित्यन्याय- वैशेषिकादिविविधदर्शनपालिप्राकृत्यादिभाषापाण्डुलिप्यादिगवेषणाक्षेत्रे प्रो. सुवासचन्द्रदाशमहोदयस्य महत्वपूर्णमवदानमस्ति। सः वहुप्रतिष्ठित प्रतिष्ठानपक्षतः पुरस्कृतः विविधैः सम्मानैः सम्मानितः। भक्तिमार्गस्य प्रमुखसाधनोपायः स्तुतिरिति शास्त्रकाराभिमतम्। एतेन श्रीजगन्नाथस्य अपारकरुणामनायसेन लभ्यते। अस्मिन् जगति अविद्यामायामोहादिकवलितः जीवः अनित्यं नित्यमिति चिन्तयित्वा कष्टमनुभवति। संसाररूपकदुःखकपेभ्यः मुक्तिप्राप्तये स भगवतः श्रीजगन्नाथस्य नानारूपं स्मरणं कृत्वा रक्ष रक्षेत्युच्यते। तस्य पादसेवायै स्वजीवनोत्सर्गं करोति । कविः काव्येऽस्मिन् स्वजीवनस्य तथा समाजस्य चित्रप्रतिपादनपूर्वकं श्रीजगन्नाथस्य दशावतारं पौराणिकमाख्यानं श्रीकृष्णवाल्यलीलादिप्रसङगस्ञ उपस्थापयति।





Files

PRANATIPANCASIKAKAVYE DASAVATARAVARNANAM.pdf

Files (418.8 kB)

Name Size Download all
md5:a9bb48088fc204f483289c156ec9c6f9
418.8 kB Preview Download