चातुर्मास्यप्रयोगविमर्शः
Description
शोधसार:
वस्तुतः यागः द्विविध:- श्रौतस्मार्तश्च, सोमः तत्र श्रुतौ तावत् वैदिकानि कर्माणि पञ्चधा विभक्तानि । ते यथा— अग्निहोत्रम, दर्शपूर्णमासौ, चतुर्मास्यानि, पशुः,
इति । तेषु यागेषु अग्निहोत्रयागः अन्यतमः। अग्निहोत्र: यागः वैदिकः यागः भवति, यागोऽयं यजुर्वेद वर्णितः तत्र अग्निहोत्रं नाम अग्न्युद्येशेन सायं प्रातः क्रियमाणो
होमविशेषः । यस्य आचरणेन सुख-शान्ति-समृद्धिश्च प्राप्तिर्भवति । सदा अग्निहोत्रः क्रियतेश्चेत् वा तवरणस्य शुद्धिर्भवति । यस्य करणेन व्यक्तेः शारीरिक मानसिकः एवं आध्यात्मिकशुद्धिः अपि भवत। समाजस्य हिताय अयं यागः महती आवश्यकी भवति ।
अग्निहोत्रमहिमा -
आधानसिद्धेषु वैतानिकाग्निषु अग्निहोत्रादीनि कर्माण्यनुष्ठेयानि भवन्ति । तत्राग्निहोत्रं नाम अग्निमुद्देशेन सायं प्रातः क्रयमाणो होमविशेषः । शतपथे चाग्निहोत्रं
दीर्घसत्रमुच्यते यच्च मरणपर्यन्तं मनुष्येण कर्त्तव्यमिति । तैत्तिरीयसंहितायामग्निहोत्रं परमयज्ञः कथितः। प्रजापतिना परमेष्ठिना (कश्यपेन) चेदमग्निहोत्रं कर्म जीवनपर्यन्तं कृतं तेन स परमेष्ठी उच्यते । ऐतरेयस्य मते सदा उदिते सूर्ये प्रातरग्निहोत्रं कर्तव्यम्। तन्मते चतुर्विशे ह वै संवत्सरेऽनुदितहोमी गायत्री लोकमाप्नोति । शांखायनब्राह्मणे चाग्निहोत्रं देवातिथ्यमुक्तम ।
Files
2nd article.pdf
Files
(1.1 MB)
| Name | Size | Download all |
|---|---|---|
|
md5:9cbfad9ee0c9683453325fa307209ba2
|
1.1 MB | Preview Download |