ऋतुसंहारे कामसूत्रस्य प्रभावः
Authors/Creators
Description
धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयं भारतीयसंस्कृतेराधारस्तम्भो भवति। मनुष्याणां निखिलका-मनानां पर्यवसानमत्रैव परिलक्ष्यते। शरीरं, मनः, बुद्धिः, आत्मा चैतन्यचतुष्टयं मनुष्यान्तर्गतमनन्त-कामनानामावाश्यकतानां च निधानं भवति। एषां चतुर्णामंगानां सर्वविधावश्यकतानां च संपूर्तिः धर्मार्थकाममोक्षद्वारैव भवितुमर्हति। बुद्धये धर्मस्य, शरीरपुष्टयेऽर्थस्य, मनस्तुष्टये कामस्य, तथाऽऽत्मने मोक्षस्यावश्यकताऽपरिहर्त्तव्या भवति। यतो हि भोजनादिनां विना शरीरस्य निष्क्रियतां च गच्छति। कामं (स्त्रियं) विना मनः कुण्ठितं भवति। धर्मं विना सत्यरहिता बुद्धिः भ्रष्टा भवति तथा मोक्षरहितस्यात्मनः पतनं न केनाप्युपायेन रोद्धुं शक्यते। यथा धर्मेण बुद्धेः सम्बन्धो नैसर्गिकः, तथा शरीरेणार्थस्य, मनसा कामस्य, आत्मना मोक्षस्य च सम्बन्धोऽपि नित्यः। इत्थं धर्मार्थकाममोक्षेषु पुरुषार्थेष्वेकोऽन्यस्यावश्यकतानुसारमाधार आधेयश्च सम्पद्यते। ततः धर्मविरुद्धस्यार्थस्य कामस्य च यथाशास्त्रानिद्देशं सेवनेन मोक्षसौख्याधिगमो मानवजीवनस्य चरमलक्ष्यत्वेन निर्धारितः कल्याण-कामिभिः। तस्माद् धर्मार्थमोक्षाणामालोचने प्रवर्त्तमानानां शास्त्रनिवहाणां यावदौचित्यं तावदेव कामविषयमधिकृत्य विरचितानां शास्त्राणामपीति स्थितिः।
Files
83-02-Dr. Rajkishordasah.pdf
Files
(711.2 kB)
| Name | Size | Download all |
|---|---|---|
|
md5:71405fe37cb22dcaddeca0f700003d84
|
711.2 kB | Preview Download |