उपनिषत्सु भक्तिः
Description
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति ख्यातपूर्वा उक्तिः । अत्र प्रयोजनस्य आवश्यकता तथा च महत्वं प्राथम्येन कथनीयम् । इदं तु स्पष्टमेव यत् यद्यपि सर्वेषां कृते विषयस्यास्य आवश्यकता, तथापि बहवो जनाः अनभिज्ञाः । तस्मात् कोऽस्मिन् विषये अधिकारी इत्यत्र वक्तव्यम् । अद्वैतवेदान्तमतानुसारेण कदाचित् सर्वेऽपि अधिकारिणः भवितुम् अर्हन्ति, परन्तु सर्वे न सन्तीति वस्तुस्थितिरियम् । तस्मात् प्रश्नोऽयं तथैव यत् कोऽत्र अधिकारि नाम अनेकार्था हि शब्दाः इति न्यायेन अधिकारिशब्दस्यापि नैके अर्थाः भवन्ति, तथापि प्रकरणवशादत्र निकषद्वयम् आवश्यकम् इति मन्ये । प्रथमः निकष उपनिषदर्थावगतिः तथा च साधनाभकत्या मोक्षप्राप्तिरिति । प्रयोजनमपि द्विविधं स्यात् यथा फलस्वरुपभक्तेः प्राप्तिः तथा च साधन भक्तया मोक्षप्राप्तिरिति । उपनिष्यन्थाभ्यासः विषयः । बोध्य वोधकभावसम्बन्धः । अधिकारी अयम् आपाततो अधिगतोपनिषदर्थः । तस्मादुपनिषद्विषये किञ्चिदत्र मन्तव्यम् । उपनिषद्विषयिणी श्रद्धा द्वितीयश्च भक्तेः यथार्थ भानम् ।
उपनिषन्नाम गुरु-शिष्ययोः संवादः । कुत्रचित् स संवादः स्पष्टतया उपलभ्यते कवचिच्च अनुमीयते । यथा कठोपनिषदि अथवा प्रश्नोपनिषदि स्पष्टोऽयं संवादः । तथा केनोपनिषदि संवादोऽयं स्यादिति अनुमीयते । सामान्यतया उपनिषत्सु त्रिकतत्त्वज्ञानं दृश्यते। त्रिकं नाम संकलनात्रयम् । भिन्नाः एताः संकल्पना: काश्मीरशैवदर्शने उपलभ्यमानाभ्यः संकल्पनाभ्यः । उपनिषत्सु विद्यमानाः तिस्रः संकल्पना: नाम जीव जगत् तथा च ईश्वरः । प्राचीनेषु एकादशोपनिषत्सु स्ववैशिष्ट्यानुसारम् एतासां तिसृणां संकल्पनानां विचारः विद्यते । भक्तेः कृते जगद्विहाय जीवेश्वरयोः अत्यन्तावश्यकता अनयोर्हृद्यं वर्णनम् आगच्छति मुण्डकोपनिषद् तथैव श्वेताश्वतरोपनिषदि ।
Files
Upanisastu bhakti.pdf
Files
(4.7 MB)
| Name | Size | Download all |
|---|---|---|
|
md5:a3e3cc654d0eabd2e46ce4326905807f
|
4.7 MB | Preview Download |