कुमारसंम्भवमहाकाव्ये वैवाहिकव्यवस्था - एकम् विश्लेषणम्
Description
भारतीयधर्मशास्त्रानुसारेण प्रमुखपोडशसंस्कारेषु विवाहसंस्कारः अन्यतमश्रेष्ठसंस्कारः । विवाह् घञ् वि उपसर्ग वह् धातोः घञ् प्रत्यययोगे विवाहशब्दो निष्पद्यते । धर्मार्थकाममोक्षार्थं विवाहकरणीयः । केषाञ्चिदाचार्याणां मते पुत्रकामार्थं विवाहः क्रियते । पूर्वापरसर्वाधिकम् एकविंशति २१ पुरुषान् उद्धरति पुत्रः। वरकन्ययोः वैवाहिकजीवने सुखसमृद्धिः, सुपुत्रपुत्री, यशम्, धनम्, सम्मानायुवृद्ध्यादि करणीय विवाहसंस्कारकार्य क्रियते ।
विवाहः एक जीवनस्य आधारशिला यस्मिन् सम्पूर्णं गृहम् अवलम्बते । यदा एषा वैवाहिकशीलाभग्नं भवति तदा समग्रजीवनं दुर्विसहं भवति । वैदिककालात् गृहस्थाश्रमस्य पवित्रकार्य सम्पादनाय विवाहः आवश्यकः इति मन्यते। संस्काराणां मध्ये विवाहोऽप्येको यज्ञ एव मन्यते । अत एव विवाहं संपाद्य गृहस्थजीवने प्रवेश आवश्यको मन्यते । तद्भावे मानवोऽयज्ञियो यज्ञहीनो वाऽभिधीयते । तैत्तिरीयब्रह्मणे स्पष्टतया लिखितम् यथा- अयज्ञियो वा एप योऽपत्नीकः ।
Files
कुमारसंम्भवमहाकाव्ये वैवाहिकव्यवस्था - एकम् विश्लेषणम्.pdf
Files
(4.2 MB)
| Name | Size | Download all |
|---|---|---|
|
md5:d85320348c217ac624742ec3bac860c9
|
4.2 MB | Preview Download |