Published December 31, 2025 | Version v1
Journal article Open

पारस्करगृह्यसूत्रे पञ्चमहायज्ञः - एकमध्ययनम्

  • 1. ROR icon Utkal University

Description

गृहस्थाश्रमे अवस्थिताभ्यां गृहस्थ- गृहिणीभ्यां देवयज्ञः भूतयज्ञः पितृयज्ञः मनुष्ययज्ञः ब्रह्मयज्ञश्चेति पञ्चमहायज्ञाः अनुष्ठेयाः । देवयज्ञेन गृहपतिः गृहपत्नी च विधिपूर्वकं देवानां कृते भोज्यपदार्थं समर्पयतः, भूतयज्ञेन गृहपतिः गृहपत्नी च विधिपूर्वकं भूतगृह्येभ्यः भोज्यपदार्थं प्रदत्तः, पितृयज्ञेन गृहपतिः गृहपत्नी च विधिपूर्वकं पितृपुरुषेभ्यः भोज्यपदार्थं प्रदत्तः, ब्रह्मयज्ञेन गृहपतिः प्रतिदिनं स्वाध्यायम् अध्यापनञ्च करोति, मनुष्ययज्ञेन गृहपतिः गृहपत्नी च विधिपूर्वकं गृहागतेभ्यः परिव्राजक - ब्रह्मचारीप्रभृतिभ्यः भिक्षाभोजनदानादिभिः सम्यग्रूपेण आतिथ्यसत्कारं कुरुतः। एतेषु पञ्चमहायज्ञेषु पर्याप्तपरिमाणैः सामाजिकमूल्यबोधाः परिलक्ष्यन्ते। यज्ञस्तु त्यागवाचकशब्दः । एतेषु पञ्चमहायज्ञेषु सर्वेषां पोषणाय रक्षणाय च गृहस्थानां कृते विविधप्रकाराणां त्यागादीनां विधानमस्ति | वास्तवतः चतुराश्रमाणां परिपालनं हि गृहस्थस्य गुरुदायित्वं भवति। परन्तु अधुना समाजे वासं कृतवन्तः गृहस्थाः स्वकर्त्तव्यं निष्ठया सह न पालयन्ति । अतः अन शोधप्रबन्धमाध्यमेन समाजस्य हिताय गृहस्थानां कर्त्तव्यं प्रति सचेतनतां कर्त्तुमपि शक्यते ।
कूटशब्दा:-
- पाकयज्ञः, हुतः, अहुतः, प्रहुतः, प्राशितः, देवयज्ञः, भूतयज्ञः, पितृयज्ञः, मनुष्ययज्ञः, ब्रह्मयज्ञश्च ।

Files

Paraskara gruhya sutre panchamahayanja Vedanjali.pdf

Files (859.9 kB)