Published January 26, 2026 | Version v3

वैदिकगणितशास्त्रस्य विद्यालयपाठ्यक्रमे आवश्यकता: राष्ट्रीय-शिक्षा-नीति-२०२० दृष्ट्या गवेषणात्मकः विमर्शः

Description

 

भारतीयशिक्षाव्यवस्थायाः इतिहासे प्राचीनवेदिकज्ञानव्यवस्था विशेषं स्थानं धारयति। वैदिकगणितशास्त्रं तादृशं प्राचीनशास्त्रं यत् वेदेषु निहितं, किन्तु आधुनिककाले पुनरुद्धारितम्।वैदिकगणितशास्त्रं प्राचीनभारतीयज्ञानव्यवस्थायाः महत्त्वपूर्णं भागं विद्यते। अस्य शास्त्रस्य विद्यालयपाठ्यक्रमे समावेशः छात्राणां गणितीयक्षमतायाः विकासे, समस्या-समाधाने, मानसिकगणने च सहायकं भवति। नवशिक्षानीति-२०२०(NEP 2020) भारतीयशिक्षाव्यवस्थायाः परिवर्तने मुख्यं भूमिकां निर्वहति, यत्र प्राचीनभारतीयज्ञानव्यवस्थानां (IKS) समावेशः विशेषरूपेण उल्लिखितः। अस्य शास्त्रस्य मूलं अथर्ववेदस्य परिशिष्टे विद्यते, यत्र १६ सूत्राणि तथा १३ उपसूत्राणि आधारितानि। एतानि सूत्राणि गणितीयक्रियाणां सरलीकरणे, मानसिकगणने, समस्या-समाधाने च सहायकानि।नवशिक्षानीति-२०२० भारतसर्वकारेण २०२० वर्षे अनुमोदिता, शिक्षाव्यवस्थायाः मूलभूतपरिवर्तने लक्ष्यं करोति। इयं नीतिः ५+३+३+४ पाठ्यक्रमसंरचनां, बहुविषयकशिक्षां, प्राचीनभारतीयज्ञानव्यवस्थानां समावेशं च प्रोत्साहयति। NEP 2020 अनुसारं, गणितशिक्षायां विशेषरूपेण आधारभूतसाक्षरता तथा संख्यात्मकक्षमतायाः विकासः आवश्यकः। वैदिकगणितं इयं नीतिः प्राचीनगणितीयज्ञानस्य रूपेण समावेशितं भवितुमर्हति, यतः अयं छात्राणां संज्ञानात्मकक्षमतायाः वृद्धिं करोति।अस्मिन् शोधपत्रे गुणात्मकअध्ययनरूपेण वैदिकगणितस्य विद्यालयपाठ्यक्रमे आवश्यकतायाः NEP 2020 दृष्ट्या पर्यालोचनं क्रियते।

Files

IJCRM20265132.pdf

Files (476.0 kB)

Name Size
md5:eba42f5600f7951ba6ae3b0b1bba3c50
476.0 kB Preview Download