Published September 15, 2025
| Version v1
Publication
Open
वायोः प्रामाण्यनिरूपणे गौतमीयकाणादीयसिद्धान्तसमीक्षणम् Vāyoḥ prāmāṇyanirūpaṇe gautamīyakāṇādīyasiddhāntasamīkṣaṇam
Authors/Creators
Description
Abstract: शोधपत्रेऽस्मिन् गौतमीयं काणादीयं च मतमुपलक्ष्य वायोः प्रामाण्यविषये विचारः क्रियते। तत्रादौ वायोः प्रामाण्यनिरूपणावसरे प्राचीननैयायिकाः किं मतं पोषयन्ति इति विचार्य्यते। रूपाभावात् वायुः न प्रत्यक्षीक्रियते इति प्राचां मतिः। स च वायुः स्पार्शनप्रत्यक्षेण अनुमीयते। एवं वायोः प्रामाण्यम् अनुमानेन स्थापयन्ति ते। किन्तु नव्याः वायोः प्रत्यक्षत्वमुररीकुर्वन्ति। वायुप्रत्यक्षीकरणाय ते अनुमानं स्थापयन्ति। एवमन्यत्र कणादसम्प्रदायाः वायोः द्रव्यत्वं कथमङ्गीकुर्वन्ति, वायोः द्रव्यत्वे किं मानं, सामान्यतोदृष्टानुमानेन वायुसिद्धिः कथं भवति इति विषयाः परिष्क्रियन्ते। अन्ते च आलोचितप्रकरणस्य केषाञ्चन प्रश्नानां समाधानं प्रदीयते इति शोधसंक्षेपः।
Files
11. वायोः प्रामाण्यनिरूपणे गौतमीयकाणादीयसिद्धान्तसमीक्षणम्.pdf
Files
(416.8 kB)
| Name | Size | Download all |
|---|---|---|
|
md5:eb4e6f503a5eb0988fbce5180b30f26c
|
416.8 kB | Preview Download |