Published January 8, 2026 | Version 84
Journal article Open

कुट्टकारकस्वरूपविमर्शः

  • 1. कर्तुः स्वरूपं प्रतिपादयता श्रीमता पाणिनिना 'स्वतन्त्रः कर्ता' इत्युक्तम्। अत्र स्वतन्त्रशब्दः प्रधानार्थकः।

Description

कर्तुः स्वरूपं प्रतिपादयता श्रीमता पाणिनिना ‘स्वतन्त्रः कर्ता’ इत्युक्तम्। अत्र स्वतन्त्रशब्दः प्रधानार्थकः। तथा चोक्तं पतञ्जलिना—
“अयं तन्त्रशब्द इत्येव विताने वर्तते। तद्यथा—आस्तरीणं तन्त्रम्, प्रोतं तन्त्रमिति वितानमिति गम्यते। अस्ति प्राधान्ये वर्तते तद्यथा—स्वतन्त्रोऽसौ ब्राह्मण इत्युच्यते। स्वप्रधान इति गम्यते। ततः प्राधान्ये वर्तते तन्त्रशब्दस्तस्माद् ग्रहणम्” इति।

तदुक्तव्याख्याने कृत्वा श्रीमता कैयटेनोक्तम्—
“स्वशब्द आत्मवाची।
स्व आत्मा तन्त्रं प्रधानं यस्य स्वतन्त्र उच्यते” इति।

कारकाधिकरणक्रियाजन्ये स्वातन्त्र्यमपेक्षते। एवञ्च क्रियासिद्धौ स्वातन्त्र्येण विवक्षितं कारकं कर्तृसंज्ञं भवति सूत्रार्थः।

Files

Munna Prasad.pdf

Files (86.2 kB)

Name Size Download all
md5:cc81336577af2ef2f8345ebc09b3cc32
86.2 kB Preview Download