पर्वताः चनद्यः रघोः विजययात्रायाम् प्रकृतिसौन्दर्यस्य चित्रणम्
Authors/Creators
- 1. संस्कृतविभाग, भाषासाहित्यभवनम्गुजरातविश्वविद्यालयः, अहेमदाबाद, ३८०००९, गुजरातम्
- 2. सी. यु. शाह. महाविद्यालयः अहेमदाबाद्
Contributors
Editor:
Description
सारांशः (Abstract)
महाकविकालिदासस्य‘रघुवंश’महाकाव्यम्भारतीयसंस्कृतेः,प्रकृति सौन्दर्यस्य च राजधर्मस्य च विशेषग्रन्थः अस्ति। अस्मिन् काव्ये नदीनां पर्वतानां च वर्णनं केवलं प्राकृतिकदृश्यप्रदर्शनं न भवति, किन्तु सम्पूर्णकथानके पात्राणां भावनाभिः सांस्कृतिकमूल्यैः च घनिष्ठतया संबद्धं दृश्यते। अत्र पर्वताः स्थैर्यस्य, भव्यतायाः, पराक्रमस्य च प्रतीकानि भवन्ति, यथा नद्यः जीवनप्रवाहस्य, पवित्रतायाः, ऊर्जायाः च प्रतिनिधित्वं कुर्वन्ति। कालिदासेन गङ्गायाः सरयू: च वर्णनेन राजवंशस्य शौर्यं आध्यात्मिकतां च प्रकाश्यते। तथा हिमालयः, विन्ध्यः, मलयः च पर्वताः राजकीयाभियानस्य, विराटत्वस्य, प्रकृत्या सह सह-अस्तित्वस्य च प्रतीकानि द्योतयन्ति। एवं प्रकारेण ‘रघुवंशे’ नदीनां पर्वतानां च चित्रणं केवलं काव्यसौन्दर्यमात्रं न, किन्तु राजधर्मस्य, मानवीयभावनानां, भारतीयसंस्कृतेः च दिव्यदृष्टेः अपि प्रतिबिम्बं भवति।