व्युत्पत्तिवादोक्तदिशा कर्माख्यातार्थविचारः
Authors/Creators
Description
श्री गदाधरभट्टाचार्यः व्युत्पत्तिवादे द्वितीयाकारकप्रथमखण्डे कर्माख्यातार्थं विचारयति। तत्र फलमेव कर्माख्यातार्थः इति उक्तमस्ति। ग्रामो गम्यते इत्यत्र ते इत्याखातस्य संयोगरूपं फलमर्थः। नव्यमते धातोः फलावच्छिन्नव्यापारः एवार्थः। गम् धातोः संयोगानुकूल व्यापारः इत्यर्थः। अतः ग्रामो गम्यते इति वाक्यात् संयोगानुकूलव्यापारजन्यसंयोगाश्रयः ग्रामः इत्यर्थः भविष्यति। पक्षे अस्मिन् फलस्य द्विवारं भानमस्ति। अत्र यदि कर्माख्यातस्य फलमित्यर्थः न स्वीकरोति तर्हि ग्रामो गम्यते इत्यत्र संयोगरूपफलाश्रयत्वं ग्रामे न प्रतीयेत। अत्र अयं संयोगः ग्रामे विशेषणं एव। धातूपस्थितसंयोगरूपं फलं तु धात्वर्थव्यापारे विशेषणं भवतीत्यतः तस्य संयोगस्य ग्रामे विशेषणं भवितुं न शक्यते। तस्य कारणं तु एकत्र विशेषणत्वेन अन्वितस्य अन्यत्र विशेषणत्वेनान्वयासंभवात् इत्येतदेव। तस्मात् ग्रामे विशेषणीभूतं संयोगरूपं फलं कर्माख्यातोपस्थाप्यं भवतीति आचार्यमतम्। फलावच्छिन्नव्यापारे धातोः शक्तिः उक्ता अस्ति न तु व्यापारावच्छिन्नफले तस्य शक्ति प्रतिपादिता अस्ति। यस्य यद्रूपेण वा यदवच्छिन्नत्वेन वा शक्तिः कल्प्यते तेनैव रूपेण वा तदवच्छिन्नत्वेन वा तद्विषयकशाब्दबोधः भवेत्। न तु शक्तौ अवच्छेदकत्वेन वर्तमानस्य शाबदबोधे अवच्छिन्नत्वं भवेत्। तस्मात् धातुजन्यसंयोगादिरूपस्य फलस्य शक्तौ विशेषणत्वमेव कल्पितं इत्यतः तस्य शाब्दबोधे अपि विशेषणत्वेन भानं अवश्यमेव। अतः व्यापारविशेष्यत्वेन भासमानस्य फलस्य कर्माख्यातेन उपस्थितिः वाच्या। तदुच्यते व्युत्पत्तिवादे- यादृशविशेष्यविशेषणभावापन्नयोः पदशक्यता तादृशविशेष्यविशेषणभावापन्नयोरेव शाब्दबोधे भानसंभवात्, न तु विपरीतविशेषणविशेष्यभावापन्नयोः ( गदाधरभट्टः 2011, 230) इति।
Files
Dr.Ajimon-CS.pdf
Files
(248.3 kB)
| Name | Size | Download all |
|---|---|---|
|
md5:74fc044f24ed5badd6d586f90286e7a6
|
248.3 kB | Preview Download |