मातृकासंपादनकर्मणि संभवनीयाः क्लेशाः परिहारोपायाश्च
Authors/Creators
- 1. Lecturer , Department of Sanskrit, Besant Women's college M.G. Road, Kodialbail,, Mangalore, India
Description
मातृका इत्युक्ते हस्तेन लिखितः कोऽपि ग्रन्थो यत्र साहित्यं वा शास्त्रं वा विषयः। यत्किमपि वस्तुं उपयुज्य हस्तेन लिखितं अक्षरं कृतिभागः वा कृतिः एव हस्तप्रतिः । हस्तेन लिखितानां साहित्यानां शास्त्राणां अध्ययनं ग्रन्थसंपादनम् । अस्य नामान्तराणि मातृका, आदर्शमातृका, पाण्डुपत्रम्, हस्तलेख, हस्तकृतिः, ग्रन्थः इत्यादयः । ग्रन्थसंपादनशास्त्रम् नाम मातृकासु लभ्यमानानां ग्रन्थपाठानां शास्त्रशुद्धे संपादने प्राधान्यं वहमानं पाठपरिष्कारविषयकं शास्त्रम् ।अस्य ग्रन्थ संपादन शास्त्र विचार संग्रहस्य मातृकाणां परिचायनं, तासु समुपलभ्यानां ग्रन्थपाठानां च पठनयोग्येन शुद्धेन क्रमेण स्थापनाय ज्ञापनं च प्रयोजनम् ।
संस्कृत क्षेत्रे बहवो हि प्राचीनाः उत्तमाः ग्रन्थाः अप्रकाशिताश्च विद्यन्ते । अस्माकं आद्य कर्तव्यं तेषां संरक्षणम् । अद्यत्वे प्रकाशितेशु प्राचीनग्रन्थेषु काव्यानां व्याख्यानानि न्यूनतया दृश्यन्ते । काश्चन तस्यामेव स्थितौ जीर्णावस्थां प्राप्यमाणावलोकन्ते काश्चन लुप्ताश्च । हस्तप्रतेः प्रारम्भः अभिवृद्धिः स्वरूपं तथा महत्वं, संरक्षणं, संपादनं, प्रकाशनम् इत्यादयः अत्र आगताः विषयाः।