Published May 25, 2023 | Version v1

ऋषिकाणां समाजं प्रति योगदानम्

  • 1. Research Scholar, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
  • 2. Research Professor, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru

Description

प्रतियुगं यदि वयं दृष्टिं प्रसारयामः तर्हि उत्तमस्त्रीणाम् उपनयनं, वेदाध्ययनं  शास्त्राध्ययनं वा आ बहोः कालादेव आसीदिति ज्ञायते । “देव्यो मुनि स्त्रियश्चैव नरादिकुलजा अपि  उत्तमा इति विज्ञेया” इति आचार्यमध्वैः व्योमसंहिताभागे उदाहृतम् । तन्नाम सर्वासां कुलजास्त्रीणां वेदाध्ययनं विहितमिति अत्र उक्तम्। पूर्वं कदाचित् मैत्रेयी पतिम् अपृच्छत् यत् “त्वया दत्ताभिः सर्वसम्पद्भिः अहम् अमृतत्त्वं प्राप्नवानि किम्? इति पृष्टे सति तेन मुनिना उक्तम् “नैव भद्रे ! एषा सम्पद् ऐहिकसुखलोभाय केवलम् । अमृतत्त्वं प्राप्तुं वेदशास्त्रज्ञानं कारणम्” इति अवदत् । तदा मैत्रेयी “य देव वेद तदेव ब्रूहि मे” इति पृष्टवती । तदा मुनिः अतीव सन्तुष्टः, वेदज्ञानं दातुं सम्मतः अभवत् इति कथा श्रूयते । तासां काथानामाधारेण स्त्रीणां वेदाध्ययनम् उपनयन्संस्कारः, इत्याअयः आसन्निति ज्ञायते ।

 बह्वः स्मृतयः सन्ति, ताः वेदानां सारं प्रतिपादयन्ति । तासु स्मृतिषु यमस्मृतिः काचित् विद्यते तत्र कश्चन श्लोकः एवम् अस्ति –

पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते ।

अध्यापनञ्च वेदानां सावित्री वाचनं यथा ॥ यमस्मृतिः (निर्णयसिन्धुः)

यथा मन्त्ररष्टारः ऋषयः आसन् तथैव ऋषिकाः अपि आसन् पूर्वकाले । काश्चन ब्रह्मवादिन्यः अपि आसन्, ताः घोषा, गोधा, विश्ववारा, अपाला, इन्द्राणी, रोमाशा, सरमा इत्याद्यः । तासां समाजं प्रति योगदानं किम् ? ताः वेदज्ञानं प्राप्य धर्मरक्षणाय किं कृतवत्यः इत्यादिकं विषयं प्रस्तौतुम् इच्छामि  ।

Files

Saku bai (Gayatree).pdf

Files (1.3 MB)

Name Size
md5:6294f67c2f34eac8f16c86ff4f169d7a
1.3 MB Preview Download