Published May 25, 2023 | Version 24 February 2023

एच्. वि. नागराजराववर्यस्य शतककाव्येषु जीवनमूल्यानि

  • 1. संस्कृतभाषाशिक्षकः, मुक्तस्वाध्यपीठम्, राजीवगान्धीपरिसरः, शृङ्गेरी, केन्द्रीयसंस्कृतविश्वविद्यालयः

Description

द्राक्षा  म्लानमुखी जाता शर्करा चाश्मतां गता ।

 सुभाषितरसस्याग्रे सुधा भीता दिवं गता ।।[1]

   सुभाषितस्य रुचेः पुरतः द्राक्षा म्लाना अभूत् । शर्करा शिलाखण्डः अभूत् । भीत्या सुधा स्वर्गलोकं प्रति फलयितवती । एवं सुभाषितस्य विषये सुभाषितरत्नभाण्डागरस्य उक्तिः। लौकिकजीवनं सार्थकम् अर्थपूर्णं च कर्तुं विद्यमानविशिष्टोक्तयः, लोकोक्त्ययः, हितवाक्यानि एव सुभाषितानि इति तु सुप्रसिद्धम् । सुभाषितानि मूल्ययुक्तम् एवम् अर्थगर्भितपदपुञ्जैः संयुक्तं वर्त्तन्ते। एतानि सरलया मधुरया मनोहरसंस्कृतभाषया एवं सलिलमनोहरछन्दसि रचितानि विद्यन्ते। एतत् भारतस्य सनातनज्ञानपरम्परायाः विचारधारायाः गरिमां वैशिष्ट्यं च अभिव्यनक्ति। सार्वकालिकसत्यं जीवनमौल्यं च बोधयति सुभाषितम्। भारतीयानां नृणां सर्वाङ्गीनविकासाय सुभाषितं कारणीभूतम् इत्यत्र नास्ति लेशोऽपि संशीतिः। समेषां अर्थपूर्णाय सन्तोषपूर्णाय सुखमयजीवनाय साहाय्यम् अभूत् सुभाषितम् । विदितं सत्यमिदं यत् भरतखण्डस्य प्राचीनसंस्कृतेः ज्ञानपरम्परायाः नागरीकतायाः दर्पणायते सुभाषितम् ।  एवमेव सुभाषितं वैविद्यपूर्णविषयाणाम् आगरः, भारतीयानां  धर्म-तत्वज्ञान-समाजशास्त्र-कला-कुशलकर्मणाम् आगरः भाण्डारः सम्पत्  विद्यते ।

 

 

Files

kiran Shankar Bhat.pdf

Files (1.2 MB)

Name Size
md5:cdd730c2c5f3eb7bc495c0828129ebf8
1.2 MB Preview Download