Published May 25, 2023 | Version v1

कर्णाटकशास्त्रीयसङ्गीतसाहित्ये अद्वैतवेदान्तप्रमेयांशाः

Authors/Creators

  • 1. Research Scholar of Karnataka Samkritha University, Departement of Vedantic Studies

Description

दर्शनेष्वन्यतमं वेदान्तदर्शनम् तत्राप्यन्यतमं शाङ्करं दर्शनम् आत्मा एक एव स च नित्यः इति वदद्भिः भगवत्पादैः जगतः मिथ्यात्त्वं प्रतिपादितम् सिद्धान्तस्यास्य विस्तरेण प्रतिपादनार्थं सुगमतया अवगमनार्थंयुक्तिभिः तस्य स्थिरीकरणार्थं च अनेकैः विद्वद्भिः अनेके ग्रन्थाः रचिताः एतेषामध्ययनमेकं साधनम् आत्मनः यथार्थज्ञानार्थम् एतदतिरिक्तं वेदान्तार्थबोधनसमर्थं साधनं विद्यते सङ्गीतम् वेदान्तस्य परिचायने सङ्गीतस्यापि योगदानं महत् विद्यते अनेके वाग्गेयकाराः वेदान्तविचारयुक्ताः कृतीः रचितवन्तः येन जनाः सङ्गीतमास्वादयन्तः वेदान्तमपि ज्ञातुं प्रभवेयुः यदा सङ्गीतसाहित्ये अद्वैतदर्शनमित्ययं विषयः विचार्यते तदा आदौ स्मृतिपथमायान्ति सदाशिवब्रह्मेन्द्रयतिवर्याःमुत्तुस्वामिदीक्षिताःत्यागराजादयः तत्र स्वयं संन्यासिनः सदाशिवब्रह्मेन्द्रयतिवर्याः अत्यन्तं स्पष्टरूपेण वदन्ति “स्वप्रकाशशिवम् अद्वयमभयं । निष्प्रतर्क्यमनपायमपायं ब्रह्मैवाहं किल गुरुकृपया इति योऽर्थः “अहं ब्रह्मास्मि" (बृहदारण्यकोपनिषत् - १.४.१०) इति महावाक्येन प्रतिपाद्यते स एवार्थः अत्र सदाशिवब्रह्मेन्द्रयतिभिरपि शब्दान्तरैः उक्तः इति स्पष्टम् अवगम्यते अस्यामेव पङ्क्तौ विद्यमानः गुरुकृपया इति शब्दः वेदान्तोक्तम् – “ आचार्यवान् पुरुषो वेद (छान्दोग्योपनिषत् - ६.१४.२) इति वाक्येन प्रतिपादितमेवार्थम् अनुवदति ।

Files

Sai Rasami.pdf

Files (924.5 kB)

Name Size
md5:259dcd21178e44ec4e6301ce94c0088b
924.5 kB Preview Download