भासविरचितानां महाभारताधारितनाटकानाम् अध्ययनम्
Authors/Creators
- 1. Research Scholar, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
- 2. Research Professor, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
Description
संस्कृतवाङ्मये प्रथितनाटककारेषु अन्यतमः भासः। भासस्य नाटकानि वैविद्यमयः कथावस्तुभिः, ललितया भाषया, सरलया शैल्या सर्वजनहृद्यं भूत्वा संस्कृतवाङ्मये भासाय प्रमुखं स्थानं कल्पयन्ति। रामायण-महाभारतानां कथावस्तु आबालवृद्धेभ्यः ज्ञातपूर्वः एव । अतः कथाकथनं नूनं भासस्य उद्देशः न । तेषु विद्यमानाः रसभरिताः भागान् एव स्वीकृत्य अभिनययोग्यं नाटकं रचयित्वा सहृदयानां मनस्सन्तोषः एव तस्य उद्देशः।
अस्मिन् लेखे भासेन प्रणितेषु महाभारताधारितेषु नाटकेषु कथावस्तूनां वैविद्यम्, मूलकथानां परिवर्तनम्, स्त्रीपात्राणां चित्रणम्, नायकपात्राणां वैचित्र्यम्, शैली, रसनिरूपणम् इत्यादिविषयान् अधिकृत्य वक्तुम् इच्छामि । मध्यमव्यायोगः, पञ्चरात्रम्, दूतवाक्यम्, दूतघटोत्कचम्, कर्णभारम्, ऊरुभङ्गम् च महाभारतकथाधारितानि नाटकानि । पात्राणां उदात्तीकरणं भासस्य नाटकेषु द्रष्टुं शक्यते । सामान्यतः दुष्टपात्राणि इति वयं यानि पात्राणि कथयामः, तेषु पात्रेषु उत्तमान् अंशान् चित्वा सहृदयानां पुरतः प्रदर्शनम् एव भासस्य वैशिष्ट्यम् । अस्य नाटकेष् सामान्यजनानां मुग्धतां, गुरुषु भक्तिं, ज्येष्ठेषु आदरभावं जनेषु विनम्रताप्रदर्शनम्, दीनानां साहाय्यकरणम् इत्यादिकं वयं द्रष्टुं शक्नुमः।
Files
Anitha H. C..pdf
Files
(1.1 MB)
| Name | Size | Download all |
|---|---|---|
|
md5:ea07bea0bdbf20a6ae14715abc6ff533
|
1.1 MB | Preview Download |