Published May 25, 2023 | Version v1

माघस्य पाण्डित्यं व्यक्तित्वं च

  • 1. Research Scholar, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
  • 2. Research Professor, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru
  • 3. Associate Professor And Head. Dept Of Sanskrit. S. D. M. College (Autonomous) Ujire.

Description

माघकविः “शिशुपालवधम्” इति माहाकाव्यं लिलेख । अत्र इदं कथावस्तु, जरासन्धस्य वधं कृत्वा श्रीकृष्णः अर्जुनभीमाभ्यां सह इन्द्रप्रस्थं प्रत्यागतः, धर्मराजं युधिष्ठिरं सर्वं वृत्तान्तम् अवदत् च ।  तत् श्रुत्वा सः नितरां सन्तुष्टः । तत्पश्चात्  युधिष्ठिरद्वारा राजसूययागं कर्तुं सिद्धतां कारितवान्। एवम्  अस्मिन् काव्ये बहूनां प्राचीनानां कवीनां समन्वितां रूपं परिलक्षितम् अस्ति । अस्य काव्यस्य मूलं तु महाभारतस्य सभापर्वणि वर्णितं दृश्यते। तथैव श्रीमद्भागवत-पुराणादिषु अस्य कथा परिदृश्यते । अयं माघः सर्वेषां कवीनां मुख्यः प्रेरणास्रोतः अस्ति । स च पर्वत-ऋतु-वन-विहार-जलक्रीडा-सूर्यास्त-एवं प्रभातादिवर्णनं शिशुपालवधस्य एकैकस्मिन् सर्गेऽपि विस्तरेण कृतवान् अस्ति ।

वीररसप्रधाने अस्मिन् ग्रन्थे शृङ्गार-रौद्र-अद्भुतरसाः गौणतया दृश्यन्ते । अस्य महाकाव्यस्य नायकः श्रीकृष्णः, स तु न केवलं देवपुरुषः अपि तु कुशलः शासकः इत्यपि कविः वर्णयति । श्रीकृष्णस्य पुरुषोत्तमस्वरूपं काव्ये तत्र तत्र दृश्यते । शिशुपालवधग्रन्थे माघस्य राजनैतिकज्ञानं कीदृशमिति द्वितीयसर्गे वर्णितम् वर्तते ।  माघः विलक्षणबुद्धिमान् इत्यतः समग्रं जीवनं विशेषज्ञानप्राप्त्यै यापितवान् ।

Files

Sridhar Hegde.pdf

Files (1.2 MB)

Name Size
md5:388523690bd071c34425b0bb0514ba38
1.2 MB Preview Download