कान्तासम्मितोक्तः प्रभुधर्मः
Authors/Creators
- 1. प्राध्यापकः, श्रीमन्मध्वसिद्धान्तप्रबोधकसंस्कृतमहाविद्यालयः उडुपी
Description
धर्मशब्दस्य धारकः इत्यर्थः । योऽस्मान् धरति उद्धरति सः धर्मः । स च वर्णधर्मः आश्रमधर्मः वर्णाश्रमधर्मः नैमित्तिकधर्मः गौणधर्मः साधारणधर्मश्चेति षद्विधः। धर्मनिर्णये श्रुतिः स्मृतिः साधूनामाचारः आत्मनः तृप्तिश्चेति चत्वारि प्रमाणानि । वेदादिप्रमाणनिर्णीतो धर्मः कान्तासम्मितमिति प्रथिते काव्यवाङ्मये धर्ममर्मज्ञैः कविभिरुच्यते काव्यमपि धर्मे प्रमाणमित्यत्र न कस्यापि विप्रतिपत्तिः । अत एव कुन्तकेन उच्यते धर्मादिसाधनोपायः सुकुमारक्रमोदितः काव्यबन्धः” इति । रञ्जनार्थकात् रन्ज्धातोः निष्पन्नस्य राजन् इति शब्दस्य रञ्जनकर्तरि शक्तिः, स एव प्रभुः । प्रजारञ्जनं तत्कर्तव्यम् । तदुक्तं कालिदासेन रघुवंशे राजा प्रकृतिरञ्जनात् इति । रामायणादिषु काव्येषु परिशीलितेषु द्विविधो राजधर्मोपदेशः दृक्पथमायाति । तत्र प्रथमः राज्ञः आत्मोद्धाराय द्वितीयश्च प्रजानां सुखाय । राजधर्मस्यास्य विचारः अद्य कथं प्रस्तुतत्वमेति? गणराज्यं प्रजाराज्यमिति व्यवह्रियमाणे आधुनिकक्रमे तदभावात् इति सन्देहः स्यात् । प्रजाभिरेव चितस्य मन्त्रिपदवाच्यस्य कर्तव्यं राजधर्मान्नातिरिच्यते । प्रजारक्षणं तत्पालनं देशरक्षणं च तस्याप्यवश्यं कर्म । तथापि इदमस्माकं दौर्भाग्यं यदनुपादेयं कणिकनीत्यादौ निर्दिष्टं तदेव अधुनातनैः राजकीयपुरुषैरनुष्ठीयते । येन केन प्रकारेण प्रभुत्वं धनं च हस्तापचेयं कार्यमित्येकमेव लक्ष्यं हृदि निधाय व्यवहरन्तस्ते स्वयमधर्मे उठन्तः अन्यानपि पातयन्तः धर्मकुठाराः संवृत्ताः । अपराधिनः रक्षन्तः साधून् कारागारे वासयन्तः सनातनीं संस्कृतिं च नाशयन्तः विजृम्भन्ते । तादृशेऽस्मिन् अवसरे प्राचीनैरनुष्ठितानां राजधर्माणां विमर्शः नूनम् औचित्यमावहति । नवीनमित्येव न साधु सर्वं, न चाप्यवद्यं पुराणवाक्यम् इत्येतदद्यतनं सुभाषितं स्यात् । अत एवात्र काव्येषु प्रतिपादितेषु राजधर्मविषयेषु अङ्गुलिपरिमेयानां निरूपणम् अभिधीयते इति ।