There is a newer version of the record available.

Published May 20, 2023 | Version v1

नन्दिनीवरप्रदानम् - व्याससृष्टिः कालिदासीया अनुसृष्टिः

Authors/Creators

  • 1. All India Training Incharge, Samskrita Bharathi, Mangaluru

Description

     कविकुलगुरुणा कालिदासेन विरचितं रघुवंशमहाकाव्यं जगत्प्रसिद्धम् । तत्रत्याः रघुवंशीयानां राज्ञां कथाः अपि विश्वविख्याताः एव । तस्य महाकाव्यस्य नन्दिनीवरप्रदाननामके द्वितीये सर्गे या कथा अस्ति, यश्च सिंहदिलीपसंवादः अस्ति तौ अनन्तरकाले बहूनां सहृदयानाम् आदरपात्रतां गतौ । परन्तु एषा कथा कालिदासस्य एव कल्पना न, तत्पूर्वम् अपि सा कथा आसीत् इति बहवः न जानन्ति ।

महाभारतस्य, अष्टादशपुराणानाम्, उपपुराणानां ब्रह्मसूत्राणां च कर्ता भगवान् बादरायणः पद्मपुराणे एतां कथां निबद्धवान् अस्ति । वस्तुतः सा एव कथा रघुवंशमहाकाव्ये कालिदासेन पुनः निबद्धा अस्ति ।

    तावता कालिदासे कृतिचौर्यस्य आरोपणं नोचितम् । “पूर्वसूरिभिः वर्णितम् एव अहं पुनः वर्णयामि” इति सः रघुवंशस्य आरम्भे एव विनयपूर्वकं निवेदयति । अन्यच्च पूर्वसूरीणां कृतिभ्यः कथां स्वीकृत्य तस्य विस्तारणं तत्र नूतनानाम् अंशानां योजनं च कविसमवाये अनुमतं श्लाघनीयं च अस्ति एव । तथा कृत्वापि कविः स्वस्य प्रतिभाविशेषेण श्लाघनीयः जगद्वन्द्यश्च भवति । तादृशेषु कविवर्येषु अन्यतमः अस्ति कालिदासः ।

    प्रकृतम्, कालिदासेन पद्मपुराणात् या कथा स्वीकृता अस्ति, तस्याः तेन कृतायाः पुनःसृष्टेः च साम्यानि कानि सन्ति ? वैषम्याणि च कानि सन्ति ? आनुपूर्व्यां कः भेदः अस्ति ? अलङ्काराणां प्रयोगे किं वैशिष्ट्यम् अस्ति ? – इत्यादयः अंशाः अस्मिन् शोधप्रबन्धे विचार्यन्ते ।

Files

Vishwasa.pdf

Files (892.7 kB)

Name Size
md5:e7928d5d22d0035f38e6380e4e30e44e
892.7 kB Preview Download