Published December 31, 2022 | Version v1

योगवासिष्ठरामायणे शास्त्रव्याख्यानकौशलविमर्शः (Treatment of Philosophy in Yogavasishtha Ramayana- An Analysis)

Authors/Creators

Description

राम एव अयनं प्रतिपाद्यं यस्य काव्यस्य तदेव रामायणम्। रामचरितं केन्द्रीकृत्य आविश्वं विरचितानां आलेख्यानाम् इतिहासादीनां कविकृतीनां वा अनिःशेषत्वं सम्यक् प्रतिपाद्यते पद्मपुराणे- “न तत् पुराणं न हि यत्र रामो यस्यां न रामो न च संहिता सा। स नेतिहासो न हि यत्र रामः काव्यं न तत् स्यान्नहि यत्र रामः॥” भगवता वाल्मीकिना विरचितं रघुनन्दनरामचरिताश्रितम् इतिहासकाव्यं रामायणम्। तत् प्रभावेण बहुतरेषु रामोपजीव्यवाङ्मयेषु विरचिताः सन्ति च अध्यात्मतत्त्वप्रधानाः मन्त्र-अद्भूत-अध्यात्म-आनन्द-भुशुण्ड-तत्त्वसंग्रह-योगवासिष्ठादयः रामायणग्रन्थाः। रामायण परम्परायां मोक्षसंहिताख्यं योगवासिष्ठं स्वकीयवैशिष्ट्येन विशिष्टस्थानमधिकरोति दार्शनिकशास्त्रकाव्यरूपेण। ग्रन्थोऽयं ‘सुबोधितं शास्त्रं’ पुनः ‘काव्यं रसमयं चारु’ इति शास्त्रकाव्यरूपेण ग्रन्थविशेषत्वं सुव्यक्तं ग्रन्थकृद्भिः।  शोधनिबन्धेऽत्र  काव्यसन्दर्भेऽस्मिन् शास्त्रविचारणायाः प्रतिष्ठा कथं कीदृक्प्रविधिम् अनुसृत्य वा विहिता, शास्त्रव्याख्यानस्य किं कौशलं वा गृहीत्वा रसमयं काव्यं विनिर्मितं  इत्यनुसन्धेयम्।

 

Files

Treatment of Philosophy in Yogavasishtha Ramayana- An Analysis.pdf

Files (452.4 kB)