Published October 23, 2022 | Version 16 July 2022

महाकवेः कालिदासस्य काव्येषु पर्यावरणम्

Authors/Creators

  • 1. Research Scholar, Srinivasa Yoga Samskrit Research Centre, Mukka. Suratkal, Mangaluru

Description

महाकविः कालिदासो रससिद्धकवीश्वरः । रसश्च स्थायीभावानां परिपाकरूपः । भावश्व मानवचित्तवृत्तेविकासः ।
कालिदासो हि रसनिष्पादनानुकूलव्यापारे कृताभिनिवेशो दृश्यते। अतो रसनिष्पत्तये जडात्मिकां प्रकृतिमपि
उद्दीपनविभावतया स्वकाव्येषु वर्णयति । यथा - कानन गहनादीनाम्, सन्ध्याप्रभातसुषमातिशयानाम्,
नदीनदपर्वतरत्नाकराणाम्, षण्णामृतूनां वर्णनं मानवनिसर्गेण सह सामरस्यमधिगन्तुं कविवरः प्रवर्तते रससिद्धः
कविः जडात्मकस्य निसर्गस्य वर्णनं उत्तमतया चिकीर्षति । अस्य कवेः सर्वे विषयाः अस्मान् प्रेरयन्ति,
उत्साहयन्ति, हितं च बोधयन्ति ।

Files

महाकवेः कालिदासस्य काव्येषु पर्यावरणम्.pdf