Published 2022 | Version v1
Journal article Open

पारस्करगृह्यसूत्रे वैवाहिकव्यवस्था-एकम् अध्यनम्

  • 1. ROR icon Utkal University

Description

विशिष्टवेदाभाष्यकारः सायणमतानुसारेण इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः। अङ्गयते गम्यते ज्ञायते अमीभिरति अङ्गानि । अर्थात् येषु साधनेषु किमपि वस्तुनः स्वरुपज्ञानं भवति तदङ्गमिति कथ्यते । वेदस्य अङ्गानि वेदाङ्गमिति विग्रहानुसारं वेदस्य अङ्गभूतानि खलु निरुक्तं, वेदाङ्गानि। अङ्गम् इति शब्दः सहायवाचकः । यथा- शिक्षा, कल्पः, व्याकरणम्, छन्दः, ज्योतिषम् चेति।
मण्डुकोपनिषदि' षण्णामपोतेषा नामानि इत्थं लिखितानि । यथा- शिक्षाकल्पोव्याकरणम् निरुक्तं छन्दो ज्योतिषमिति ।
पाणिनीयशिक्षायाः एतानि वेदाङ्गानि वेदपुरुषस्य षडङ्गरुपेण कल्प्यन्ते । यथा-
छन्दः पादौ तु वेदस्य हस्तो कल्पोऽथ पठ्यते ।
ज्योतिषानयनं चक्षुः निरुक्तं श्रोत्रमुच्यते।।
शिक्षा प्रणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ।।
वेदाङ्गेषु कल्पसूत्रस्य स्वतन्त्रोऽपयोगीता सन्ति। प्राचीन भारतीयवैदिककालस्य रचनाप्रविधिः सूत्रसाहित्यं वेदाङ्गेषु कल्परुपेण अभिहितमस्ति ।

Files

पारस्करगृह्यसूत्रे वैवाहिकव्यवस्था-एकम् अध्यनम्.pdf